अलङ्कारशास्त्रे नव्यन्यायदर्शनस्य प्रभावः
अलङ्कारशाखे सर्वथा अर्थविचार एव प्राधान्यमावहति। न्यायशास्त्रे अपि अर्थविचारः पदार्थ- विचाररूपेण सम्पादितः। नव्यन्यायस्य नव्यत्वं नाम प्रतिपादने वैशिष्ट्यम्। नव्यनैय्यायिकैः अव- लंबिता शास्त्रीया प्रतिपादनरीतिः संस्कृतभाषाप्रयोगकुशलैरपि दुरवगमा वर्तते। रसगङ्गाधरादिषु नव्यव्यायस्य साक्षात्प्रभावः द्रष्टुं शक्यते। विश्वेश्वरपण्डितकृतः अलङ्कारकौस्तुभः नव्यन्यायशैलीं सुतरामाश्लिषति । गोकुलनाथोपाध्यायविरचिता विवरणाख्या काव्यप्रकाशटीका रसमञ्चर्याः वि- श्वेश्वरपण्डितकृता समञ्जसाख्या व्याख्या च नव्यन्यायभाषां विभर्ति। रसनिरूपणावसरे तत्र गौडानां मैथिलानां च मतोपन्यासः प्रदर्शितः। एवं नव्यनैव्यायिकाः एव पुरस्कृताभिनवभाषाशै- लीप्भावतःसाहित्यशाखस्य प्रधानपदवीसम्पादने प्रचोदनभूता इति प्रसंगोयमुपयुज्यते ।