सप्तपदीहृदयदिशा - सप्तपदीक्रियायाः विमर्शः
यज्ञभावनया विधीयमानकर्मानुष्ठाननिर्देशपरेषु वेदभागेषु षोडशसंस्काराणां विशदवर्णना द- रीदृश्यते । दोषापनयनं, गुणाधानञ्च तादृशसंस्काराणामुद्देशः । उक्तञ्च ब्रह्मसूत्रभाष्ये शङ्कराचार्यैः "संस्कारो हि नाम गुणाधानेन वा स्यात् दोषापनयनेन वा" इति। गृह्यसूत्रेषु संस्काराणां विहितत्वं विद्यते, यानि वेदाश्रयत्वेन विद्यमानानि । भिन्नभिन्नाचार्याणां मते मते संस्काराणां संस्कारा संख्या बहुप्रकारेण वर्तते तथापि मुख्यतया षोडशसंस्काराः प्रथिताः। ते च गर्भाधानम् पुंसवनं, सी- मन्तोन्नयनम्, जातकर्म, नामकरणम्, निष्क्रमणम्, अन्नप्राशनम् चूडाकर्मकर्णवेधः, उपनयनम्, वेदारम्भः, समावर्तनम्, विवाहः, वानप्रस्थः, सन्यासः, अन्त्येष्टिः इत्यादयः एव इति दयानन्द- स्वामिना निर्दिष्टम् । गर्भादानादारभ्य अन्त्येष्टिपर्यन्तं विहितानां संस्काराणां मध्ये विवाहस्य उत उद्वाहस्य प्राथम्यमस्ति । विवाहसंस्कारेऽपि बहुक्रियानिर्देशः अस्ति। गोदान-कन्यादान-लाजहोम- यज्ञकुण्डप्रदक्षिणसप्तपदी सूर्या वारुन्धतीदर्शनप्रदर्शनप्रभृतिविहितविधीनां प्रयोजनं माहात्म्यं च सम्यगवगन्तव्यमेव तत्रान्यतमायाः सप्तपदीक्रियायाः विचारः अत्र क्रियते ।