अनिर्वचनीयख्यातौ पञ्चकोत्पत्तिनिरूपणम्

पक्षतावच्छेदकनिरूपणावसरे सत्तादात्म्यरूपविशेषणस्य सत्प्रतियोगिकतादात्म्यरूपार्थे पर्य- वसितस्य प्रपञ्चे अभावात् पक्षाप्रसिद्धिमाशङ्कय तत्परिहारः प्रदर्शितः अस्ति लघुचन्द्रिकायाम् । शुक्तौ रजतभ्रमस्थले यथा इदमि रजततादात्म्यम्, रजते च इदंतादात्म्यम् यथा अङ्गीक्रियते तद्वत् ब्रह्मणि दृश्यतादात्म्यम्, दृश्ये च ब्रह्मतादात्म्यं च अङ्गीकर्तव्यम् इत्येतत् निरूपितम् । अस्मिन् च प्रसङ्गे लघुचन्द्रिकाकारैः रजतम्, रजततादात्म्यम्, रजतत्त्वसंसर्गः, इदंतादात्म्यम्, इदन्त्वसंसर्ग- श्वेति पञ्च पदार्थाः उत्पद्यन्ते इत्येतत् निरूपितम् । एतेषां पञ्चानां पदर्थानाम् उत्पत्तौः अपेक्षिताः कार्यकारणभावाश्च निरूपिता । इमे विषयाः मया अस्मिन् शोधप्रबन्धे विमृश्यन्ते ।

View article page

Download PDF