कौण्डभट्टमतेन नञर्थनिर्णयः

नञ् इति निपातः लोके शास्त्रे च अत्यन्तं प्रसिद्धः। तस्य चार्थस्य विषये विवदन्ते शास्त्रकाराः। नैय्यायिकमींमासकौ नञः अभावार्थकत्वं मन्वानाः प्रयोगप्रसङ्गेन क्वचिदत्यन्ताभावः क्वचिच्च अन्योन्याभावः च तदर्थः इति वदन्ति। वैय्याकरणाः नञः पर्युदासप्रसज्यप्रतिषेध भेदमङ्गीकृत्य अर्थभेदं ब्रुवन्ति। तत्र च विद्यते मतभेदः। नागेशास्तु पर्युदासस्य आरोपितविषयत्वर्थः, प्रसज्यप्रतिषेधे समस्तस्य अत्यन्ताभावः, असमस्तस्य च प्रसङ्गात् अत्यन्ताभावान्योन्याभावौ अर्थी इति वदति। कैय्यटदीक्षितादयस्तु आरोपितत्वमेव सर्वेषामर्थः इति वदन्ति । किन्तु कौण्डभट्टः भूषणसारे तस्य अभावार्थत्वं प्रतिपादयति। पत्रेऽस्मिन् भूषणसारदिशा नञर्थः कथम् अभावः इति आलोच्यते।

View article page

Download PDF