व्युत्पत्तिवादोक्तदिशा भूमिं गच्छति न महीरुहं इति वाक्यस्य प्राचीननवीननैय्यायिकमतमनुसृत्य वाक्यार्थविचारः ।

द्वितीया विभक्त्यर्थे धात्वर्थे च प्राचीननवीननैय्यायिकानां मध्ये ग व प्राचीननवीननैय्यायिकानां मध्ये मतभेदः अस्ति। द्वितीयायाः फलमात्रमर्थः धातोस्तु व्यापारः एवार्थः इति प्राचीननैय्यायिकाः वदन्ति। नवीनाः फलावच्छिन्नव्यापारः धात्वर्थः द्वितीयायाः आधेयता एवार्थः इति वदन्ति। पक्षद्वयेपि विविधप्रयोगेषु कथं साधुत्वमिति विषये अनेकाः आशङ्काः सन्ति। ताः आशङ्काः अत्र प्रदर्थ्य विचारः क्रियते। तथापि प्रधानतया भूमिं गच्छति न महीरुहं इति प्रयोगसंबद्धाः आशङ्काः अत्र विचार्यन्ते।

View article page

Download PDF