शृङ्गारकाव्यानां प्रयोजनम्
अस्मिन् लेखे शृङ्गारकाव्यानां प्रयोजनं भारतीयकाव्यशास्त्रदृष्ट्या विशदीक्रियते। भरतमुनिप्रणीतरससूत्रस्य, आनन्दवर्धनस्य ध्वनिसिद्धान्तस्य, अभिनवगुप्तस्य अभिव्यक्तिवादस्य च आलोकनेन शृङ्गारस्य केवलं लौकिकरतिकथनरूपत्वं न स्वीक्रियते, अपि तु सः धर्मादिपुरुषार्थोपदेशपर्यवसायी इति प्रतिपाद्यते। मम्मटाद्याचार्यैः निर्दिष्टानि काव्यप्रयोजनानि अपि अस्मिन् परिशील्यन्ते। कालिदास-भवभूत्यादिकाव्येषु उदाहरणैः दर्श्यते यत् रसानुभवः सहृदयस्य अन्तःकरणे आनन्दं जनयन् जीवनमूल्यबोधनस्य साधनं भवति। अतः शृङ्गारकाव्यं सौन्दर्यानन्दस्यैव न, किं तु नैतिक संस्कृतिपरिपोषणस्यापि प्रभावी माध्यमम् इति निष्कर्षः।