शिक्षाव्याकरणनिरुक्तयोः पारस्परिकसम्बन्धः शिक्षासूत्राणां व्याकरणनिरुक्तयोः सैद्धान्तिकपरिप्रेक्ष्ये तुलनात्मकमध्ययनम्

वैदिकवाङ्गये वेदाङ्गत्रयस्य- शिक्षाया व्याकरणस्य निरुक्तस्य च परस्पराश्रयभावः स्पष्टतया द्रष्टुं शक्यते। शिक्षाशास्त्रं वर्णस्वरप्रयत्नप्रकर्षेण वेदमन्त्राणां शुद्धोच्चारणाय साधनं निर्दिशति। व्याकरणशास्त्रं पदरचनाव्यवस्थां, रूपसिद्धि, सन्धिसंयोगादीनां नियमप्रणालीं च प्रदर्शयति । निरुक्तशास्त्रं मन्त्रपदानां व्युत्पत्तिं, अर्थनिर्णयं च युक्तिपूर्वकं व्याचष्टे। एतेषां त्रयाणां शास्त्राणां पृथक्पृथक् स्वातन्त्र्यं विद्यते, तथापि वैदिकवाङ्गयस्य शुद्धपाठे अर्थग्रहणे च एतेषां संयुक्तोपयोगः अनिवार्यः। अस्मिन् लेखे शिक्षासूत्राणां सिद्धान्ताः व्याकरणनिरुक्तयोः सैद्धान्तिक परिप्रेक्ष्ये तुलनात्मकदृष्ट्या विश्लेष्यन्ते। वर्णोच्चारणनियमाः (शिक्षा), शब्दरूपसंरचना (व्याकरणम्), पदानां व्युत्पत्त्यर्थनिर्णयः (निरुक्तम्) इति त्रिविधदृष्ट्या शिक्षासूत्राणां वैदिकभाषाशास्त्रीयप्रासङ्गिकता प्रतिपाद्यते।

View article page

Download PDF